|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.70. अध्यायः 070
Mahabharata - Vana Parva - Chapter Topics
बाहुकस्य सारध्यसामर्थ्यविस्मितेन ऋतुपर्णेन तंप्रति पुञ्जीभूतवस्तुपरिसंख्याने स्वीयसामर्थ्यनिवेदनम् ॥ 1 ॥ वृक्षशाखास्थपर्णेषु तत्परीक्षया विस्मितेन नलेनाश्वहृदयविद्यादानप्रतिज्ञानन तदीयाक्षहृदयादिविद्यास्वीकरणम् ॥ 2 ॥ ततो नलदेहाद्वहिर्निःसृतेन कलिना नलशापभयात्तस्मै वरदानपूर्वकं विभीतकवृक्षप्रवेशः ॥ 3 ॥
Mahabharata - Vana Parva - Chapter Text
बृहदश्व उवाच। 3-70-0x(1954)(18575)
स नदीः पर्वतांश्चैव वनानि च सरांसि च।
अचिरेणातिचक्राम स्वेचरः खे चरन्निव ॥ 3-70-1(18576)
तथा प्रयाते तु रथे तदा भागस्वरिर्नृपः।
उत्तरीयमधोपश्यद्धष्टं परपुरंजयः ॥ 3-70-2(18577)
ततः स त्वरमाणस्तु पटे निपतिते तदा।
ग्रहीष्यामीति तं राजा नलमाह महामनाः ॥ 3-70-3(18578)
निगृह्णीष्व महाबुद्धे हयानेतान्महाजवान्।
वार्ष्णेयो यावदेनं मे पटमानयतामिह ॥ 3-70-4(18579)
नलस्तं प्रत्युवाचाथ दूरे भ्रष्टः पटस्तव।
योजनं समतिक्रान्तो नाहर्तुं शक्यते पुनः ॥ 3-70-5(18580)
एवमुक्ते नलेनाथ नातिप्रीतमना नृपः।
आससाद वने राजन्फलवन्तं बिभीतकम् ॥ 3-70-6(18581)
तं दृष्ट्वा बाहुकं राजा त्वरमाणोऽभ्यभापत।
ममापि सूत पश्य त्वं संख्याने परमं बलम् ॥ 3-70-7(18582)
सर्वः सर्वं न जानाति सर्वज्ञो नास्ति कश्चन।
नैकत्र परिनिष्ठाऽस्ति ज्ञानस्य पुरुषे क्वचित् ॥ 3-70-8(18583)
वृक्षेऽस्मिन्यानि पर्णानि फलामेकं च बाहुक।
पतितान्यपि यान्यत्रतत्रैकमधिकं कृतम् ॥ 3-70-9(18584)
एवपत्राधिकं चात्र फलमेकं च बाहुक।
फलकोट्यपि पत्राणां द्वयोरपि च शाखयोः।
`प्रवक्ष्यामि फलान्यत्र यानि संख्यास्यते भवान् ॥' 3-70-10(18585)
प्रचिनुह्यस्य शाखे द्वे याश्चाप्यन्याः प्रशाखिकाः।
आभ्यां फलसहस्रे द्वे पञ्चोनं शतमेव च ॥ 3-70-11(18586)
ततो रथादवप्लुत्य राजानं बाहुकोऽब्रवीत्।
परोक्षमिव मे राजन्कत्थसे शत्रुकर्शन ॥ 3-70-12(18587)
प्रत्यक्षमेतत्कर्ताऽस्मि शातयित्वा विभीतकम्।
अथ ते गणिते राजन्द्विजामाम्यपरोक्षताम् ॥ 3-70-13(18588)
प्रत्यक्षं ते महाराज् गणयिष्ये विभीतकम्।
अहं हि नाभिजानामि भवेदेव नवेति वा ॥ 3-70-14(18589)
संख्यास्यामि फलान्यस्य पशय्तस्ते जनाधिप।
मुहूर्तमपि वार्ष्णेयो रश्मीन्यच्छतु वाजिनाम् ॥ 3-70-15(18590)
तमब्रवीन्नृपः सूतं नायं कालो विलम्बितुम्।
बाहुकस्त्वब्रवीदेनं परं यत्नं समास्थितः ॥ 3-70-16(18591)
प्रतीक्षस्व मुहूर्तं त्वमथवा त्वरते भवान्।
एष याति शिवः पन्था याहि वार्ष्णेयसारथिः ॥ 3-70-17(18592)
अब्रवीदृतुपर्णस्तं सान्त्वयन्कुरुनन्दन।
त्वभेव यन्ता नान्योस्ति पृथिव्यामपि बाहुक ॥ 3-70-18(18593)
त्वत्कृतेयातुमिच्छामि विदर्भान्हयकोविद।
शरणं त्वांप्रपन्नोस्मि न विघ्नं कर्तुमर्हसि ॥ 3-70-19(18594)
कामं च ते करिष्यामि यन्मां वक्ष्यसि बाहुक।
विदर्भान्यदि यात्वाऽद्य सूर्यं दर्शयितासि मे। 3-70-20(18595)
अथाब्रवीद्बाहुकस्तं संख्यायच बिभीतकम्।
ततो विदर्भान्यास्यामि कुरुष्वैवं वचो मम ॥ 3-70-21(18596)
अकाम इव तं राजा गणयस्वेत्युवाच ह।
एकदेशं च शाखायाः समादिष्टं मयाऽनघ ॥ 3-70-22(18597)
गणयस्वाश्वतत्वज्ञ ततस्त्वंप्रीतिमावह।
सोऽवतीर्य रथात्तूर्णं शातयामास तं द्रुमम् ॥ 3-70-23(18598)
ततः स विस्मयाविष्टो राजानमिदमब्रवीत्।
गणयित्वायथोक्तानि तावन्त्येव फलानि तु ॥ 3-70-24(18599)
अत्युद्भुतमिदं राजन्दृष्टवानस्मि ते बलम्।
श्रोतुमिच्छामि तां विद्यां ययैतज्ज्ञायते नृप ॥ 3-70-25(18600)
तमुवाच ततो राजा त्वरितो गमने नृप।
विद्ध्यक्षहृदयज्ञं मां संख्याने च विशारदम् ॥ 3-70-26(18601)
बाहुकस्तमुवाचाथ देहि विद्याद्वयं च मे।
मत्तोऽपि चाश्वहृदयं गृहाण पुरुपर्पभ ॥ 3-70-27(18602)
ऋतुपर्णस्ततो राजा बाहुकं कार्यगौरवात्।
हयज्ञानस्य लोभाच् तं तथेत्यब्रवीद्वचः ॥ 3-70-28(18603)
यथोक्तं त्वं गृहाणेदमक्षाणां हृदयं परम्।
निक्षेपो मेऽश्वहृदयं त्वयि तिष्ठतु बाहुक।
एवमुक्त्वा ददौ विद्यामृतुपर्णो नलाय वै ॥ 3-70-29(18604)
तस्याक्षहृदयज्ञस्य शरीरान्निःसृतः कलिः।
कर्कोटकविषं तीक्ष्णं मुखात्सततमुद्वमन्।
कलेस्तस्य तदार्तस्य शापाग्निः स विनिःसृतः ॥ 3-70-30(18605)
सातेन कर्शितो राजादीर्घकालमनात्मवान् ॥ 3-70-31(18606)
`तं भ्राम्तरूपं निःशोभं संक्लिष्टमकरोत्कलिः'।
ततो विषविमुक्तात्मा स्वंरूपमकरोत्कलिः।
तं शप्तुमैच्छत्कुपितो निषधाधिपतिर्नलः ॥ 3-70-32(18607)
ततो विषविमुक्तात्मा स्वंरूपमकरोत्कलिः।
तं शप्तुमैच्छत्कुपितो निषधाधिपतिर्नलः ॥ 3-70-32(18608)
तमुवाच कलिर्भीतो वेपमानः कृताञ्जलिः।
कोपं संयच्छ नृपते कीर्तिं दास्यामि ते पराम् ॥ 3-70-33(18609)
इन्द्रसेनस्य जननी कुपिता माऽशपत्पुरा।
यदा त्वया परित्यक्ता ततोऽहं भृशपीडितः ॥ 3-70-34(18610)
अवसं त्वयि राजेन्द्र सुदुःखभपराजित।
विषेण नागराजस्य दह्यमानो दिवानिशम् ॥ 3-70-35(18611)
शरणं त्वां प्रपन्नोस्मि शृणु चेदं वचो मम।
ये च त्वां मनुजा लोके कीर्तयिष्यन्त्यतन्द्रिताः।
मत्प्रत्सूतं भयं तेषां न कदाचिद्भविष्यति ॥ 3-70-36(18612)
`न तेषां मानसं किंचिच्छारीरं वाचिकं तथा।
भविष्यति महाराज कीर्तयिष्यन्ति ये नलम्'।
भयार्तं शरणं यातं यदि मां त्वं न शप्स्यसे ॥ 3-70-37(18613)
एवमुक्तो नलो राजा न्ययच्छत्कोपमात्मनः।
ततो बीतः कलिः क्षिप्रं प्रविवेश विभीतकम्।
कलिस्त्वन्येन नो दृष्टः कथयन्नैषधेन वै ॥ 3-70-38(18614)
ततो गतत्वरो राजा नैषधः परवीरहा।
संप्रनष्टे कलौ राजा संख्यायास्य फलान्युत ॥ 3-70-39(18615)
मुदा परमया युक्तस्तेजसाऽथ परेण वै।
रथमारुह्य तेजस्वी प्रययौ जवनैर्हयैः ॥ 3-70-40(18616)
बिभीतकश्चाप्रशस्तः संवृत्तः कलिसंश्रयात्।
`ततः प्रभृतिराजेन्द्र लोकेऽस्मिन्पाण्डुनन्दन'॥ 3-70-41(18617)
हयोत्तभानुत्पततो द्विजानिव पुनः पुनः।
नलः संचोदयामास प्रहृष्टेनान्तरात्मना ॥ 3-70-42(18618)
विदर्भाभिमुखो राजा प्रययौ स महायशाः।
नले तु समतिक्रान्ते कलिरप्यगमद्गृहम् ॥ 3-70-43(18619)
ततो गतज्वरो राजा नलोऽभूत्पृथिवीपतिः।
विमुक्तः कलिना राजन्रूपमात्रवियोजितः ॥ 3-70-44(18620)
इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि सप्ततितमोऽध्यायः ॥ 70 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-70-9 तत्रैकमधिकं शतमिति झ. पाठः ॥ 3-70-10 पञ्चकोट्योऽथ पत्राणामिति झ. पाठः ॥ 3-70-26 अक्षहृदयज्ञं अक्षाणां अक्षाभिमानिदेवताया हृदयवद्वशीकरणार्थो मन्त्रः अक्षहृदयम्। येन ज्ञातेन द्यूतेऽक्षा अनुकूला भवन्ति। संख्याने राशीकृतानां पत्रपुष्पफलधान्यादीना राश्यायामविस्तारोच्छ्रायाद्यालोचनेन पाटीगणितरीत्या झटिति तत्संख्याकथने ॥ 3-70-30 शापाग्निर्दमयन्तीनिशृष्टः स विषरूपः ॥ 3-70-39 फलानि संख्याय। अक्षविद्यासामर्थ्यात् राशेरायामादिकमनालोच्यैवेति भावः ॥ 3-70-42 द्विजानिव पक्षिण इव ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|